पूर्वम्: ६।१।२०१
अनन्तरम्: ६।१।२०३
 
सूत्रम्
रिक्ते विभाषा॥ ६।१।२०२
काशिका-वृत्तिः
रिक्ते विभाषा ६।१।२०८

रिक्तशब्दे विभाष आदिरुदात्तो भवति। रिक्तः, रिक्तः। संज्ञायाम्, निष्ठा च द्व्यजनात् ६।१।१९९ इत्यनेन पूर्वविप्रतिषेधेन नित्यम् आद्युदात्तः।
न्यासः
रिक्ते विभाषा। , ६।१।२०२

"रिक्तः" इति। "रिचिर्? विरेचने" (धा।पा।१४४१)। प्रत्ययस्वरे प्राप्त आदेर्विभाषोदात्तत्वं विधीयते। "संज्ञायाम्()" इत्यादि। "निष्ठा च द्व्यजनात्()" ६।१।१९९ इत्यस्यावकाशः--दत्तः, गुप्त इति। अस्यावकशोऽसंज्ञायाम्()--रिक्तो घट इति; यदा तु रिक्तशब्दः कस्यचित्? संज्ञा भवति तदोभयोः प्राप्तौ पूर्वविप्रतिषेधेन "निष्ठा च द्व्यजनात्()" ६।१।१९९ इति नित्यमाद्युदात्तो भवति। न च पूर्वविप्रतिषेधो वक्तव्यः, परशब्दस्येष्टवाचित्वात्()